वाचस्पत्यम्
वाकुची || खी वाति क्विप् वाः कुच—वडोचे क गौरा० ङीप् कर्म० । (हाकुच) १ ओषधिभेदे २ सोमराज्यां राजनि० ।
शब्दकल्पद्रुमः
वाकुची || स्त्री (वातीति वा वायुस्तं कुचति सङ्को- चयति पूतिगन्धित्वात् । कुच् + कः । गौरादि- त्वात् ङीष् ।)
वृक्षविशेषः । हाकुच इति भाषा ॥ तत्पर्य्यायः । सोमराजी २ सोमवल्ली ३ सुवल्लिका ४ सिता ५ सितावरी ६ चन्द्रलेखा ७ चन्द्री ८ सुप्रभा ९ कुष्ठहन्त्री १० काम्बोजी ११ पूतिगन्धा १२ वल्गुला १३ चन्द्रराजी १४ कालमेषी १५ त्वग्जदोषापहा १६ कान्तिदा १७ अवल्गुजा १८ चन्द्रप्रभा १९ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । कृमिकुष्ठकफत्वग्दोषविषकण्डुस्वर्ज्जूनाशित्वञ्च । इति राजनिर्घण्टः ॥ तत्पर्य्यायगुणाः । “अवल्गुजो वाकुची स्यात् सोमराजी सुप- र्णिका । शशिलेखा कृष्णफला सोमा पूतिफलीति च ॥ सोमवल्ली कालमेषी कुष्ठघ्नी च प्रकीर्त्तिता । वाकुची मधुरा तिक्ता कटुपाका रसायनी ॥ विष्टम्भहृद्धिमा रुच्या सरा श्लेष्मास्रपित्तनुत् । रूक्षा हृद्या श्वासकुष्ठमेहज्वरकृमिप्रणुत् ॥ तत्फलं पित्तलं कुष्ठकफानिलहरं कटु । केश्यं त्वच्यं कृमिश्वासकासशोथामपाण्डुहृत् ॥” इति भावप्रकाशः ॥