वाचस्पत्यम्
वाक्पारुष्य || न० वाचा कृतं पारुष्यम् । १ वाक्यकृते पारुष्ये तद्विषके २ विवादभेदे च । तद्विवृतिः वीरमि० उक्ता यथा “तस्य च स्वरूपमाह नारदः “देशजातिकुलादीवामा- क्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्षारुष्यं तदुच्यते” इति । आक्रोशः आक्षेपः भर्त्सनमिति यावत् कलहप्रियाः गौडा इति देशाक्रोशः । अत्यन्तलोलुपा ब्राह्मणा इति जात्याक्रीशः । “क्रूरचरिता वैश्वामित्रा इति कुलाक्षेपः । न्यङ्गं निकृष्टाङ्गमवद्यञ्च तदुभययुक्तं यदुद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यमित्यर्थः । तस्य त्रैविध्यमाह स एव “निष्ठुराश्लीलतीव्रत्वादपि तत् त्रिविधं स्मृतम् । गौरवानुक्रमात्तस्य दण्डीऽपि स्यात् कमाद्गुरु- रिति” निष्ठुरादीनां स्वरूपमाह स एव “साक्षेपन्निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीव्रमाहु- र्मनीषिणः” इति । धिङ्मूर्ख! जाल्म! इत्यादि साक्षेपम्भाषणं निष्ठुरम् । न्यङ्गसंयुतं अवद्यम्भगिन्या- दिगमनसंयुतम् अश्लीलम् । पतनीयैः सुरापानादिभि- रुपाक्रोशैस्तीव्रं वाक्पारुष्यमित्यर्थः । कात्यायनोऽपि “यत्त्वसत्संज्ञितैरङ्गैः परमाक्षिपति क्वचित् । अभूतैर्वाथ भूतैर्वा निष्ठुरा वाक् स्मृता तु सा । न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा । वृत्तदेशकुलानान्तु अश्लीला सा बुधैः स्मृता । महापातकयोक्त्री च राम- द्वेषकरी च या । जातिभ्रंशकरी वाथ तीव्रा सा प्रथिता तु वागियि ।” कल्पतरौ न्यङ्गावगूरणमिति पठित्वा निकृष्टाङ्गप्रकाशनेन तिरस्करणमिति व्याख्या- तम् । न्यग्भावकरणमिति तु माधवादिसंमतः पाठः । प्रथममध्यमोत्तममेदेन त्रैविध्यमाह वहस्पतिः “दो ग्रामकुलादीनां क्षेपः पापेन योजनम् । द्रव्यं विना तु प्रथमं वाक्पारुष्यं तदुच्यते । भगिनीमातृसम्बन्ध- मुपपातकशंसनम् । पारुष्यं मध्यमं प्रोक्तं वाचिकं शास्त्रवेदिभिः । अभक्ष्यापेयकथनं महापातकदूषणम् । पारुष्यमुत्तम “प्रोक्तं तीव्रं मर्माभिघट्टनमिति ।” द्रव्यं विनेत्यत्र द्रव्यशब्दोऽभिधेयपरः । तेनोच्यमानार्थव्यति- रेकेणैवंविधमभिधानं वाक्पारुष्यमित्यर्थः इति कल्प तरौ । द्रव्यं विना द्रव्यवैशिष्ट्यं विनेति मदनरत्ने । अभिघट्टनं उत्पाटनम् । निष्ठुराक्रोशे दण्डमाह याज्ञवल्क्यः “सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रिय रोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदशा निति । अन्यथास्तोत्रन्निन्दास्तुतिः । न्यूनाङ्गाः करा- दिरहिताः । न्यूनेन्द्रियाः नेत्रादिरहिताः । रोगिणः कुष्ठ्यादयः अर्द्धत्रयोदशान् अर्द्धाधिकद्वादशपणानि- त्यर्थः । एतत् सवर्णविषयम् । अतएव वृहस्पतिः “समजातिगुणानान्तु वाक्पारुष्ये परस्परम् । विनयो- विहितः शास्त्रे पणा अर्द्धत्रयोदशाः” इति । “विष्णुरपि “समवर्णाक्रोशे द्वादश पणान्दण्ड्य इति” । परस्परमिति शेषः । मनुनारदावपि “समवर्णे द्विजातीनां द्वादशैव व्यति- क्नमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेदिति” । शङ्ख तिखितावपि “समवर्णव्यतिक्रमे द्वादशपणा यथारूप- विशिष्टाक्षेप्रेषु विशिष्टस्य चतुर्विंशतिरविशिष्टस्यातिक्रमे च विशिष्टस्य ततोऽर्द्धमिति । अत्र द्वादशसार्द्धद्वादशयो- रुत्कृष्टानुत्कृष्टत्वेन व्यवस्था । कात्यायनोऽपि” “यो मुणान् कीर्त्तयेत् क्रोधान्निर्गुणे वा गुणज्ञताम् । अन्य संज्ञानियोजो च वाग्दुष्टं तन्नरं विदुरिति” “नारदोऽपि “दुष्टस्यैव तु यो दोषान् कीर्त्तयेत् क्रोधकारणात् । अन्यायदेशवादी च वाग्दुष्टं तन्नरं विदुरिति” “अत्र कोधकारणादित्यनेन दुष्टपरित्यागार्थं दोषकीर्त्तने न दोष इति सूचितम् । अतएवोक्तं कात्यायनेन “यत्र स्वात्परि- हारार्थं पतितस्तेन कीर्त्तितः । वचनात्तत्र न स्यात्तु दोषो यम विभावयेदिति” “वचनात् दोषकीर्त्तनात् । यत्रा- मियोगादौ पातित्यादिकं साधयेत्तत्रापि वचनाद्दोषो न स्यादिति यत्र विभावयेदित्यस्यार्थ उक्तः स्मृतिचन्द्रिका- याम् । अत्रापि दण्डपारुष्यन्यायेन युगपत्प्रवृत्तयो- र्दण्डतुल्यत्वं अयुगपत्प्रवृत्तयोः पूर्वप्रवृत्तस्य दण्डाधि- क्यमिति द्रष्टव्यम् । जातिगुणकृते विशेषे दण्डवैषम्य- माह तिः “नयोः ममो दण्डोन्यूनस्य - णोदमः । “उत्तमस्याधिकः प्रोक्तो वाक्पारुष्ये परस्पर- मिति” । हीनस्योत्तनाक्षेपे द्विगुणः उत्तमस्य हीना- क्षेपेऽर्द्धपरिमितोदण्ड इत्यर्थः । याज्ञवलक्योऽपि “अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रण- यनं कार्यं वर्णजात्युत्तराधरैरिति” “अर्द्धः सार्द्धद्वाद० शपणात्मक इत्यर्थः पूर्ववाक्ये “पञ्चविंशतिको दम” इति पञ्चविंशतेः प्राकृतत्वात् । वर्णा ब्राह्मणादयः । जातयो मूर्द्धावसिक्तादयः । ते च ते उत्तराधराश्च वर्णजात्यु- त्तराधरास्तैरन्योन्याक्षेपे क्रियमाणे दण्डस्य प्रणयनम् ऊहनीयं ज्ञातव्यम् । उत्तराधरभावमालोच्य दण्डः कल्पनीय इत्यर्थः । तमेव कल्पनीयं दण्डं प्रदर्शयति मनुः “शतं व्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति । वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु बधमर्हति । विप्रः पञ्चा- शतं दण्ड्यः क्षत्त्रियस्यामिशसने । वैश्ये स्यादर्द्धपञ्चा- शच्छूद्रे द्वादशको दम इति ।” वृहस्पतिरपि क्षिपन् विप्रादिकं दद्यात् पञ्चाशत्पणिकं दममिति” । शङ्ख- लिखितावपि “आक्रोशे ब्राह्मणस्य क्षत्त्रियः पणशतं दण्ड्यः, शतार्द्धं वैश्यस्य पञ्चविंशतिं शूद्रस्येति” । वृह- स्पतिरपि । “विप्रः शतार्द्धं दण्ड्यस्तु क्षत्त्रियस्याभिशंसने । विशस्तथार्द्धं पञ्चाशच्छूद्रस्यार्द्धत्रयोदश । सच्छूद्रस्या- यमुदितो विनयोऽनपराधिनः । गुणहीनस्य पारुष्ये ब्राह्मणो नापराघ्नुयात् । वैश्यस्तु क्षत्तिया- क्रोशे दण्डनीयः शतम्भवेत् । तदर्द्धं क्षत्त्रियो वैश्यं क्षिपन् विनयमर्हति । शूद्राक्रोशे क्षत्त्रियस्य पञ्चविंश- तिको दमः । वैश्यस्य चैतद्द्विगुणः शास्त्रविद्भिरुदा- हृतः । वैश्यमाक्षारयन् शूद्रोदाप्यः स्यात् प्रथमं दमम् । क्षत्त्रियं मध्यमञ्चैव विप्रमुत्तमसाहसमिति ।” जिह्वाच्छेदनरूपोऽत्रोत्तमसाहसो द्रष्टव्यः । तथा च स एव “धर्मोपदेशकर्त्ता च वेदोदाहरणान्वितः । आक्रोशकस्तु विप्राणां जिह्वाच्छेदेन दण्ड्यते” इति शूद्र इत्यनुषङ्गः । आपस्तम्बोऽपि “जिह्वाछेदनं शूद्र- स्वार्यं धार्मिकमाक्रोशतः” इति । गौतमोऽपि “शूद्रो द्विजातीनभिसन्धायाभिहत्य च वाग्दण्डपारुप्याभ्याम- ङ्गम्मोच्यो येनोपहन्यादिति” । अभिसन्धाय बुद्धिपूर्वं वाचातिक्रम्य अभिहत्य उग्रेण दण्डेन ताडयित्वा अङ्ग- मोच्यो येनाङ्गेनाभिहन्यते तेन वियोजमीय इत्यर्थः । गुर्वाद्याक्रोशे त्वाहतः शङ्खलिखितौ “तथाऽधिकृतान् वि- प्रान् गुरुश्च निवासनम्मुण्डनं ताडनं वा गोमयानुलेपनं खरारोहणं दर्पहरणं वा दण्डो वेति । दण्डः कार्षा- पणशतरूपः । अतएव विष्णुः “गुरूनाक्षारयन् कार्षा- पणशतमिति” । पुत्रादिभिर्मात्रादीनामाक्रोशे दण्डमाह मनुः “मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयन् शतन्दाप्यः पन्थानञ्चाददद्गुरोरिति” । भ्रातरं ज्येष्ठभ्रातरम् । एतच्च साफराधेषु मात्रादिषु निरपराधायां जायायामिति मिताक्षरायामभाणि । श्वश्र्वाद्यधिक्षेपे दण्डमाह वृहस्पतिः “क्षिपन् शश्व्रादिकं दद्यात् पञ्चाशत्पणिकं दममिति ।” वाह्वा- दिच्छेदन निष्ठुरभाषाभिभाषणे दण्डमाह याज्ञवल्क्यः “बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्त- दर्द्धिकः पादनासाकर्णकरादिष्विति ।” बाह्वादिविनाशे वाचिके करिष्यामीति वाचा प्रतिपादितं शत्यः शतपरि- मितो दण्डः । पादादिभङ्गं करिष्यामीत्याक्षेपे पञ्चा- शत्परिमितो दण्ड इत्यर्थः । एवंवादिनोऽशक्तस्य दश- पणा दण्डनीया इत्याह स एव “अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दशेति ।” यः पुनः शक्तोऽशक्तस्य बाह्वादिभङ्गाक्षेपं करोति न केवलं स दण्ड्यः किन्तु अशक्तक्षेमार्थं प्रतिभुवमपि दापनीय इत्याह स एव “तथा शक्तः प्रतिभुवन्दाष्यः क्षेमाय तस्य त्विति” । अश्ली- लभाषणे दण्डमाह स एव “अभिगन्तास्मि भगिनीं सातरं वा तवेति ह । शपन्तन्दापयेद्राजा पञ्चविंशतिकं दममिति ।” तीव्राक्रोशे दण्डमाह स एव “पतनीय कृते क्षेपे दण्डमुत्तमसाहसम् । उपपातकयुक्ते तु दाप्यः प्रथमसाहसमिति ।” पतनीयैः पातित्यहेतुमि- र्ब्रह्महत्यादिभिः । उपपातकानि गोबधादीनि । मनु- रपि “ब्राह्मणक्षत्त्रियाभ्यान्तु दण्डः कार्य्यो विजानता । ब्राह्मणे साहसः पूर्वः क्षत्त्रिये त्वेव मध्यमः । विट्- शूद्रयोस्त्वेवमेव स्वजातिं प्रति तत्त्वतः । छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः । पापोपपातवक्तारो महापातक- शंसकाः । आद्यमध्योत्तमान्दण्डान्दद्युस्त्वेते यथाक्रम- मिति ।” विष्णुरपि “परस्परपतनीये क्षेपे कृते तूत्तम- साहसं उपपातकयुक्तन्तु मध्यमम् त्रैविद्यवृद्धानांक्षेपे जातिपूगानाञ्च ग्रामदेशयोः प्रथममिति” । देशाद्याक्रोशे दण्डमाह वृहस्पतिः “देशादिकं क्षिपन्दाप्यः पणा- नर्द्धत्रयोद्रश । पापेन योजयन् दर्पाद्दाप्यः प्रथमसाह- सम् । एष दण्डः समाख्यातः पुरुषापेक्षया मया । समन्यूनाधिकत्वेन कल्पनीयो मनीषिभिरिति ।” याज्ञ- वल्क्योऽपि “मध्यमो जातिपूगानां प्रथमो ग्रामदेशयो- रिति ।” राज्ञ आक्रोशे दण्डमाह नारदः “अव- क्रुश्य च राजानं वर्त्मनि स्वे व्यवस्थितम् । जिह्वा- च्छेदाद्भनेच्छुद्धिः सर्वस्वहरणेन वेति ।” याज्ञवल्क्योऽपि “राज्ञोऽनिष्टप्रवक्तारन्तस्यैवाक्रोशकन्तथा । तन्मन्त्रस्य च भेत्तारञ्छित्त्वा जिह्वाम्प्रवासयेदिति ।” सत्यदोषा- भिधानेऽपि वाक्पारुष्यदण्डोऽस्त्येव तथा च नारदः “पतितं पतितेत्युक्त्वा तथा चौरेति वा पुनः । वचना- चुल्यदोषः स्यान्मिथ्याद्विर्दोषतां व्रजेदिति ।” मनुनारदा- वपि “काणं वाप्यथ वा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डङ्कार्षापणाबरमिति ।” विष्णुरपि “काणखञ्जादीनान्तथ्यवाच्यपि कार्षापणद्वय- मिति ।” एतच्च दुर्वृत्तविषयमिति माधवीये विद्यारण्य- श्रीपादैरभ्यधायि । मिथ्यावदनशीलानां दण्डमाह कात्यायनः “अनृताख्यानशीलानाञ्जिह्वाच्छेदो विशो- धनमिति ।” हारीतोऽपि “मिथ्याभाषिणां मेलका- नाञ्च राजा जिह्वाञ्छिन्द्याद्दण्डयेद्वेति” मेलको भक्षकः । कस्यचिद्वाक्पारुष्यकृतोऽर्द्धदण्डमाहोशनाः “मोहात्- प्रमादात्सङ्घर्षात् प्रीत्या वोक्तं मयेति यः । नाहमेवं पुनर्वक्ष्ये दण्डार्द्धन्तस्य कल्पयेदिति ।”
शब्दकल्पद्रुमः
वाक्पारुष्यं || क्ली (वाचा कृतं पारुष्यम् ।)
अप्रियवाक्योच्चारणम् । तत्तु सप्तधाव्यसनान्त- र्गतव्यसनविशेषः । यथा, —
“मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे । दण्डपारुष्यमित्येतज्ज्ञेयं व्यसनसप्तकम् ॥” इति हेमचन्द्रः ॥ * ॥
तल्लक्षणं नारदेनोक्तम् । “देशजातिकुलादीनामाक्रोशन्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते ॥” देशादीना आक्रोशन्यङ्गसंयुतम् । उच्चैर्भाषण- माक्रोशः न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थं उद्वेगजननार्थं वाक्यं तद्वाक्पारुष्यं कथ्यते ॥ तस्य च दण्डतारतम्यार्थं निष्ठुरादिभेदेन त्रैविध्य- मभिधाय तल्लक्षणं तेनैवोक्तम् । “निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । गौरवानुक्तमात्रस्य दण्डोऽपि स्यात् क्रमाद्- गुरुः ॥ साक्षेपं निष्ठुरं ज्ञेयमश्लीलं न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीव्रमाहुर्म्मनीषिणः ॥” इति ॥ तत्र निष्ठुराक्रोशे स्ववर्णविषये दण्डमाह । “सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपङ्करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ॥ काणञ्चाप्यथवा खञ्चमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥” इति यन्मनुवचनं तदतिदुर्वृत्तवर्णविषयम् । यदा पुनः पुत्त्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनैवोक्तम् । “मातरं पितरं जायां भ्रातरं सुहृदं गुरुम् । आक्षारयन् शतं दाप्यः पन्थानञ्चाददद्गुरोः ॥” इति च ॥ एतच्च सापराधेषु मात्रादिषु गुरुषु निरप- राधायाञ्च जायायां द्रष्टव्यम् ॥ * ॥
अश्लीला- क्षेपे दण्डमाह । “अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । शपन् तन्दापयेद्राजा पञ्चविंशतिकं दमम् ॥ दण्डप्रणयनं कार्य्यं वर्णजात्युत्तराधरैः । प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ॥ वणानामानुलोम्येन तस्मादर्द्धार्द्धहानितः ॥” * ॥
मनुः । “शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति । वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ पञ्चशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभिशंसने । वैश्ये स्यादर्द्धपञ्चाशच्छूद्रे द्बादशको दमः ॥ बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः । शत्यस्तदर्द्धिकः पादो नासाकर्णकरादिषु ॥ अशक्तस्तु वदन्नेव दण्डनीयः पणान् दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसः । त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥” इति मिताक्षरा ॥ * ॥
वाक्पारुष्ये अभियोगमनिस्तीर्य्य प्रत्यभियोजने प्रतिप्रसवो यथा, —
“कुर्य्यात् प्रत्यभियोगञ्च कलहे साहसेषु च ।” वाक्पारुष्ये शस्त्रादिप्रहारेषु च यथा पूर्व्व- महमप्यनेनाक्रुष्टः शस्त्रेण हतः इत्यपराधा- भावाय प्रत्यभियोगं कुर्य्यात् । इति व्यवहार- तत्त्वम् ॥