संस्कृत-शब्दकोशः

वागाशनि वागीशा

वागीश

वाचस्पत्यम्

वागीश ||‍ पु० वाचामोशः । १ वृहस्पतौ “वागीशाद्याः सु- मनस” इति न्यायमाला । २ सरस्वत्यां स्त्री “वागीशा हृदये यस्य” इति भाग० टीकोपक्रमे श्रीधरः । ३ पुष्यर्क्षे च


शब्दकल्पद्रुमः

वागीशः || त्रि (वाचामीशः ।)
वाक्पतिः । सुष्ठुवक्ता इति यावत् । इत्यमरः ॥ (यथा, महाभारते । १० । ७ । ४१ । “नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥”)


शब्दकल्पद्रुमः

वागीशः || पुं, (वाचां ईशः ।)
बृहस्पतिः । इति शब्द- रत्नावली ॥ (यथा, बृहत्संहितायाम् । १७ । २७ । “अयं विशेषोऽभिहितो हतानां कुजज्ञवागीशसितासितानाम् ॥” ब्रह्मा । यथा, कुमारे । २ । ३ । “वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥”)



Correction: