वाचस्पत्यम्
वागुरा || स्त्री वा—हिंसने उरच् गन् च । मृगथार्थं मृगबन्ध- नपाशादौ अमरः ।
शब्दकल्पद्रुमः
वागुरा || स्त्री (वातीति । वा गतिबन्धनयोः + “मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरच्- प्रत्ययेन गुगागमेन च साधुः ।)
मृगबन्धनार्थ- जालविशेषः । इत्यमरः । २ । १० । २६ ॥ (यथा, कथासरित्सागरे । २१ । १६ । “श्वानः श्वभ्रा वने तस्मिंस्तस्य वर्त्मसु वागुराः ॥”)