संस्कृत-शब्दकोशः

वाग्य वाग्यम

वाग्यत

वाचस्पत्यम्

वाग्यत ||‍ त्रि० वाक् वागिन्द्रियव्यापारोयता येन । मौन- घारिणि मुनौ अमरः “वाग्यतस्त्रिसवनं चरेत्” स्मृतिः ।


शब्दकल्पद्रुमः

वाग्यतः || त्रि (वाचि वाक्ये यतः संयतः ।)
वाक्यसंयतः । यथा, —
“प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् । प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत् ॥” इति प्रायश्चित्ततत्त्वधृतशङ्खलिखितवचनम् ॥



Correction: