संस्कृत-शब्दकोशः

वाजसनेय वाजिगन्धा

वाजसनेयिन्

वाचस्पत्यम्

वाजसनेयिन् ||‍ पु० ब० व० । वाजसनेयेन प्रोक्तमधीयते इनि । यजुर्वेदशाखाभेदाध्यायिषु विप्रादिषु । २ तदुक्तरीत्या कर्मार्हेषु शूद्रेषु च “शूद्रा वाजसनेयिमः” म० मा० त० ।


शब्दकल्पद्रुमः

वाजसनेयी || [न्] पुं, (वाजसनेयेन प्रोक्तं वेदमस्त्य- स्येति । इनिः ।)
यजुर्व्वेदी । यथा, —
“आर्षक्रमेण सर्व्वत्र शूद्रा वाजसनेयिनः ॥” इति महाजनपरिगृहीतवचनात् यजुर्व्वेदविधि- नैव कर्म्म कुर्य्युः । इति मलमासतत्त्वम् ॥ (यथा, हरिवंशे । १४० । २ । “ब्राह्मणो याज्ञवल्क्यस्य शिष्यां धर्म्मगुणान्वितः । ब्रह्मदत्तेति विख्यातो विप्रो वाजसनेयिनाम् ॥”)



Correction: