वाचस्पत्यम्
वाट्याल || पु० वाटीमलति भूषयति अल—अण् । (वेडियाला) क्षुपभेदे शब्दर० गौरा० ङीष् तत्रैव स्त्री । ण्वुल् । वाट्यालक तत्रैवार्थे पु० शब्दर० ।
शब्दकल्पद्रुमः
वाट्यालः || पुं, (वाटीं अलति भूषयतीति । अल + अण् ।)
वाट्यालकः । इति शब्दरत्नावली ॥ (गुणादयोऽस्य वाट्यालकशब्दे ज्ञातव्याः ॥)