संस्कृत-शब्दकोशः

वाड वाडवाग्नि

वाडव

शब्दकल्पद्रुमः

वाडवं is an alternate of बाडवं. बा(वा)डवं || क्ली (बडवानां समूहः । बडवा + “खण्डिकादिभ्यश्च ।” ४ । २ । ४५ । इत्यञ् ।)
बडवासमूहः । इत्यमरः ॥ (बडवाया इद- मिति । बडवा + अण् । बडवासम्बन्धिनि, त्रि । यथा, सुश्रुते । १ । ४५ । “दीपनीयमचक्षुष्यं बाडवं दधि वातलम् ॥”)


शब्दकल्पद्रुमः

वाडवः is an alternate of बाडवः. बा(वा)डवः || पुं, (बाडं यज्ञान्तस्रानं वाति प्राप्नो- तीति । बाड + वा + कः ।)
ब्राह्मणः । (बड- वायां घोटक्यां जातः । बडवा + अण् ।)
बड- वानलः । इत्यमरः ॥ तत्पर्य्यायः । और्व्वः २ संवर्त्तकः ३ अब्ध्यग्निः ४ बडवामुखः ५ । इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ९९ । ६४ । “महोदधेर्जठरगतश्च बाडवो भवान् विभूत्या परया करे स्थितः ॥”)



Correction: