संस्कृत-शब्दकोशः

वातफुल्लान्त्र वातमण्डली

वातमज

वाचस्पत्यम्

वातमज ||‍ पुंस्त्री० वातमनुलक्ष्य अजति अज—अच् व्यभावः । मृगभेदे जटा० स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

वातमजः || पुं, (बातमभिमुखीकृत्य अजति गच्छ- तीति । वात + अज + “वातशुनीतिलशर्द्धेष्वज- धेट्तुदजहातीनां उपसंख्यानम् ।” ३ । २ । २८ । इत्यस्य वार्त्तिकोक्त्या खश् । “अरुर्द्बिषद- जन्तस्य मुम् ।” ६ । ३ । ६७ । इति मुम् ।)
वातमृगः । इति जटाधरः ॥ (वातगामिनि, त्रि । यथा, भट्टिः । २ । १७ । “मेघात्ययोपात्तवनोपशोभं कदम्बकं वातमजं मृगाणाम् ॥”)



Correction: