वाचस्पत्यम्
वातव्याधि || पु० वातेन देहस्थधातुभेदेव जनितो व्याधिः शाक० । वातरोगे वातशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
वातव्याधिः || पुं, (वातजनितो व्याधिः ।)
वात- रोगः । इति राजनिर्घण्टः ॥ (यथा, “शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् । रुजार्त्तिमन्तञ्च नरं वातव्याधिर्विनाशयेत् ॥” इति माधवकरकृते रुग्विनिश्चये वातरोगाधि- कारे शेषांशे ॥)