वाचस्पत्यम्
वातिक || पु० वातादागतः ठक् । देहस्थधातुजन्ये रोगभेदे राजनि० ।
शब्दकल्पद्रुमः
वातिकः || पुं, (वातादागतः । वात + ठञ् ।)
वायुजव्याधिः । यथा, —
“वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः । श्लैष्मिकः श्लेष्मसंभूतः समूहः सान्निपातिकः ॥” इति राजनिर्घण्टः ॥ (क्ली, वातस्य शमनं कोपनं वा । “वातपित्त- श्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् ।” ५ । १ । ३८ । इत्यस्य वार्त्ति० ठञ् ॥ वातिकरोगाक्रान्ते वाचाले, त्रि । यथा, महाभारते । ३ । २५६ । ३ । “अपरे त्वरुवंस्तत्र वातिकास्तं महीपतिम् । युथिष्ठिरस्य यज्ञेन न समो ह्येष ते क्रतुः ॥”)