संस्कृत-शब्दकोशः

वातुलि वातोना

वातूल

वाचस्पत्यम्

वातूल ||‍ त्रि० वात + अस्त्यर्थे ऊलच । १ वातरोमयुक्ते उन्मत्ते अमरः । समूहार्थे ऊलच् । २ वातसमूहे न० भरतः ।


शब्दकल्पद्रुमः

वातूलः || पुं, (वातानां समूहः । “वातादूलः ।” ४ । २ । ४२ । इत्यस्य वार्त्तिकोक्त्या ऊलः । यद्बा, वाताः स्वन्त्यस्मिन्निति । वात + “सिध्मादि- भ्यश्च ।” ५ । २ । ९७ । इति लच् । “वातदन्त- बलेति ।” ऊङ् । यद्वा, वातानां समूहः वातं न सहते इति वा । वात + “वातात् समूहे च । वातं न सहते इति च ।” ५ । २ । १२२ । इत्यस्य वार्त्ति० ऊलच् ।)
वात्या । वातासहे, त्रि । इत्य- मरः ॥ “वात्या वातसमूहः । अत्र जनखलादि- गोरथवातादिति ऊलः । वातासहो वात- तृणेत्यासहः । वाइया इति ख्यातः । अत्र गो- विकारादिना ऊलः वातूलः । वातेर्नाम्नीति तुले ह्रस्वोकारवानपि वातुलः । वातूलो वातुलोऽपि स्यादिति द्बिरूपकोषः ॥ उन्मत्तेऽपि वातूलः ।” इत्यमरटीकायां भरतः ॥



Correction: