संस्कृत-शब्दकोशः

वात्सक वात्सीपुत्र

वात्सल्य

वाचस्पत्यम्

वात्सल्य ||‍ न० वत्सलस्य भावः ष्यञ् । पुत्रादिस्नेहानुगुणे रसभेदे उज्ज्वलमणिः “यशोदा वत्सले स्मृता” ।


शब्दकल्पद्रुमः

वात्सल्यः || पुं, (वत्सल एव । स्वार्थे ष्यञ् ।)
रसविशेषः । यथा, —
“वात्सल्यशान्तौ तु रसौ शृङ्गारः कौशिकः स्मृतः ॥” इति त्रिकाण्डशेषः ॥ एतद्रसाधिकारी यथा, —
“शान्ते ब्राह्मण एव स्यात् प्रीते दासः प्रकी- र्त्तितः । प्रेयास स्युः सखायो हि यशोदा वत्सले स्मृताः ॥ मधुरे राधिका ज्ञेया हास्ये स्यान्मधुमङ्गलः । सखीयूथोऽद्भुते ज्ञेयो वीरे चारणगोवृषाः ॥ करुणे वत्सवृक्षादिर्जटिलाद्यास्तु रौद्रके । गोवर्द्धनेऽभिमन्युश्च भयानक उदाहृतौ ॥ तपस्विन्यादयो ह्यत्र वीभत्से परिकीर्त्तिताः । व्रजस्था नियता ज्ञेया आलम्बनविभावकाः ॥” इत्युज्ज्वलनीलमणिः ॥ (वत्सलस्य भावः । वत्सल + ष्यञ् ।)
वत्सलस्य भावे, क्ली, ॥ (स्नेहः । यथा, भागवते । ४ । ६ । ३४ । “चरन्तं विश्वसुहृदं वात्सल्ल्याल्लोकमङ्गलम् ॥”)



Correction: