संस्कृत-शब्दकोशः

वात्सीपुत्र वात्स्यायन

वात्स्य

वाचस्पत्यम्

वात्स्य ||‍ पु० वत्सस्यापत्यं यञ् । गोत्रप्रवर्त्तके मुनिभेदे ।


शब्दकल्पद्रुमः

वात्स्यः || पुं, (वत्सस्य गोत्रापत्यम् । वत्स + “गर्गा- दिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।)
मुनिविशेषः । यथा । वात्स्यसावर्णिगोत्रयो- रौर्व्वच्यवनभार्गवजामदग्न्याप्नुवत्प्रवराः । इत्यु- द्वाहतत्त्वम् ॥



Correction: