संस्कृत-शब्दकोशः

वादक वादर

वादन

वाचस्पत्यम्

वादन ||‍ न० वद—णिच्—कर्मणि ल्युट् । १ मृदङ्गादिवाद्ये भावे ल्युट् । मृदङ्गादिताडनरूपे २ व्यापारे ।


शब्दकल्पद्रुमः

वादनं || क्ली (वद् + णिच् + ल्युट् ।)
वाद्यम् । (यथा, संगीतदर्पणे । ३३ । “वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥”)



Correction: