वाचस्पत्यम्
वा(बा)दरायण || पु० व(बा)दरीप्रधानं स्थानं वाबादरं तदयनं स्थानं यस्य । नित्यं व(ब)दरिकाश्रमवासिनि १ वेदव्यासे । स्वार्थे इञ् । वा(बा)दरायणिरप्यत्र शब्दच० । अपत्ये इञ् । वा(बा)दरि व्यासपुत्रे शुकदेवे ।
वाचस्पत्यम्
वादरायण is an alternate of बादरायण. बा(वा)दरायण || पु० ब(व)दर्य्या भवः फक । वेदव्यासे । इञि
शब्दकल्पद्रुमः
वादरायणः || पुं, (वदरायणे वदरिकाश्रमे निवस- तीति । वदरायण + अण् ।)
व्यासदेवः । इति शब्दरत्नावली ॥