संस्कृत-शब्दकोशः

वानायुज वानीरक

वानीर

वाचस्पत्यम्

वानीर ||‍ पु० वन—ईरन् स्वार्थेऽण् । १ वेतसे २ वञ्जुलवृक्षे अमरः ।


शब्दकल्पद्रुमः

वानीरः || पुं, वेतसवृक्षः । इत्यमरः ॥ वाञ्जलु इति ख्यातवृक्षश्च । तत्पर्य्यायः । वृत्तपुष्पः २ शाखालः ३ जलवेतसः ४ व्याधिघातः ५ परिव्याधः ६ नादेयः ७ जलसम्भवः ८ । अस्य गुणाः । तिक्तत्वम् । शिशिरत्वम् । रक्षोघ्नत्वम् । व्रण- शोधनत्वम् । पित्तास्रकफदोषनाशित्वम् । संग्राहित्वम् । कषायत्वञ्च । इति राजनिर्घण्टः ॥



Correction: