वाचस्पत्यम्
वान्तिहृत् || पु० वान्तिं वमनरोगं हरति हृ—क्विप् । (मयपा) ख्याते वृक्षे शब्दच० ।
शब्दकल्पद्रुमः
वान्तिहृत् || पुं, (वान्तिं हरतीति । हृ + क्विप् ।) लौहकण्टकवृक्षः । इति शब्दचन्द्रिका ॥ मयना इति भाषा ॥