संस्कृत-शब्दकोशः

वापदण्ड वापित

वापि

वाचस्पत्यम्

वापि(पी) ||‍ स्त्री वप—इञ् वा ङीप् । “द्रोणात् दशगुणा षापी” इत्युक्तलक्षणे १ जलाशयभेदे जलाशयशब्दे दृश्यम् २ जनाशयमःत्रे च “वापीं स्नातुभितो गतासि” इति काव्यप्र० । “यो वापीमथ वा कूपं देशे वारिविवर्जिते । खानयेत् स दिवं याति विन्दो विन्दौ शतं समाः” कल्प तरौ वायुपु० तज्जलगुणाः “वाप्यं गुरु कदुक्षारं पित्तल कफवातजित्” राजवल्लभ । “वापीकूपतडागं वा पासादं वा निकेतनम् । न कुर्य्याद्वृद्धिकामस्तु अनला- निलनैरृते । आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म कृत् । वायव्यां बलवित्तञ्च पीयमाने जले प्रिवे! । स्थानस्य पःपके भागे वापीकूपतडानकम् । अग्निदाह सदा कुर्याव समानुषचतुष्पदाम् । नैरृते पीयमा- नन्तु आत्मना दुःखितो भवेत् । कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः” देवीपु० ।


शब्दकल्पद्रुमः

वापिः || स्त्री (उप्यते पद्मादिकमस्यामिति । वप् + “वसिवपियजिराजिव्रजीति ।” उणा० ४ । १२४ । इति इञ् ।)
वापी । इति भरतद्विरूप- कोषः ॥



Correction: