वाचस्पत्यम्
वामदेव || पु० कर्म० । महादेवमर्त्तिभेदे अमरः ।
शब्दकल्पद्रुमः
वामदेवः || पुं, (वाम एव देवः ।)
शिवः । इत्य- मरः । १ । १ । ३४ ॥ (यथा, महाभारते । १३ । १७ । ७० । “वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ॥” ऋषिप्रभेदः । यथा, पञ्चदश्याम् । ९ । ४५ । “आगामिप्रतिबन्धश्च वामदेवे समीरितः । एकेन जन्मना क्षीणो भरतस्य त्रिजन्मभिः ॥”)