वाचस्पत्यम्
वामोरू || स्त्री वामौ सुन्दरौ ऊरू यस्याः ऊङ् । प्रशस्तारुयुतायां नार्य्याम् ।
शब्दकल्पद्रुमः
वामोरूः || स्त्री वामौ सुन्दरौ ऊरू यस्याः । (“संहितशफलक्षणवामादेश्च ।” ४ । १ । ७० । इति ऊङ् ।)
नारीविशेषः । इति मुग्धबोध- व्याकरणम् ॥ (यथा, माघे । ८ । २४ । “त्रस्यन्ती चलशफरीविघट्टितोरू- र्वामोरूरतिशयमाप विभ्रमस्य । क्षुभ्यन्ति प्रसभमहो विनापि हेतो- र्लीलाभिः किमु सति कारणे तरुण्यः ॥”)