वाचस्पत्यम्
वायदण्ड || पु० वायतेऽनेन वे—करणे घञ् । कर्म० । वेमनि वापदण्डे द्विरूपकोषः ।
शब्दकल्पद्रुमः
वायदण्डः || पुं, (वायस्य दण्डः । यद्वा, वायतेऽनेनेति वायः । वाय एव दण्ड इति कर्म्मधारयः ।) वापदण्डः । इति भरतद्विरूपकोषः ॥