वायुवाह
वायुष
वायुवाहिनी
वाचस्पत्यम्
वायुवाहिनी || स्त्री वायुं देहस्थवायुं वाहयति सञ्चारयति वह—णिच—णिनि । वायुसञ्चारिण्यां देहस्थसिरायाम्- कायशब्दे १९१९ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
वायुवाहिनी || स्त्री (वायुं वहतीति । वह् + णिनिः । ङीप् ।)
वायुसञ्चारिणी शिरा । इति वैद्यकम् ॥