संस्कृत-शब्दकोशः

वारिराशि वारिलोमन्

वारिरुह

वाचस्पत्यम्

वारिरुह ||‍ न० वारिणि रोहति रुह—क । १ पद्मे राजनि० २ जलजातमात्रे त्रि० ।


शब्दकल्पद्रुमः

वारिरुहं || क्ली (वारिणि रोहति जायते इति । रुह + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।)
कमलम् । इति राजनिर्घण्टः ॥ (यथा, किरातार्ज्जुनीये । ५ । १३ । “विकचवारिरुहन्दधतं सरः सकलहंसगणं शुचिमानसम् । शिवमगात्मजया च कृतेर्ष्यया सकलहंसगणं शुचिमानसम् ॥”)
जलजाते, त्रि ॥



Correction: