वारिवास
वारिवाहन
वारिवाह
वाचस्पत्यम्
वारिवाह || पु० वारीणि वहति वह—अण् । १ मेघे २ मुस्तके च अमरः । ण्वि । वारिवाडप्यत्र भत्वे वार्यूहः ।
शब्दकल्पद्रुमः
वारिवाहः || पुं, (वारि वहतीति । वह + “कर्म्म- ण्यण् ।” ३ । २ । १ । इति अण् ।)
मेघः । मुस्ता । इत्यमरः ॥