वाचस्पत्यम्
वारीश || पु० ६ त० । १ समुद्रे २ वरुणे च । वारिनाथा- दयोऽप्यत्र ।
शब्दकल्पद्रुमः
वारीशः || पुं, (वारीणामीशः ।) समुद्रः । इति हेमचन्द्रः ४ । १३९ ॥