शब्दकल्पद्रुमः
वारुण्डः || पुं क्ली, (वृ + उण्डः ।)
नौसेकपात्रम् । नेत्रमलम् । कर्णमलम् । इति मेदिनी । ते, ३३ ॥
शब्दकल्पद्रुमः
वारुण्डः || पुं, फणिनां राजा । इति मेदिनी । डे, ३३ ॥ तन्मते पवर्गीयादिः । किन्तु वृधातोः उण्ड- प्रत्ययनिष्पन्नत्वात् अन्तःस्थादौ लिखितः ॥