संस्कृत-शब्दकोशः

वार्तावह वार्तिका

वार्तिक

वाचस्पत्यम्

वार्त्तिक ||‍ न० दात्तरूपेण कृतो ग्रन्थः ठक् । “उक्तानुक्त- दुरुक्तार्थव्यक्तकारि तु वार्त्तिकम्” इत्युक्ते सूत्रानुक्ता- द्यर्थाविष्कारके ग्रन्थभेदे हेमच० । वार्त्तायां तद्धरणे नियुक्तः ठक् । २ चर त्रि० । वृत्तिः कृष्यादिः प्रयो- जनमस्य ठञ । ३ वैश्ये ४ वर्त्तिकाखगे पुंस्त्री० स्त्रियां ङीष् । राजनि० ५ वार्त्ताकौ शब्दर० । ६ खगभेदे (वटेल) स्त्री हारा० ।


शब्दकल्पद्रुमः

वार्त्तिकं || क्ली (वृत्तिर्ग्रन्थसूत्रविवृतिः । तत्र साधुः । वृत्ति + “कथादिभ्यष्ठक् ।” ४ । ४ । १०२ । इति ठक् ।)
उक्तानुक्तदुरुक्तार्थव्यक्तीकारक- ग्रन्थः । यथा, —
“उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्त्तिकम् ॥” इति हेमचन्द्रः ॥


शब्दकल्पद्रुमः

वार्त्तिकः || पुं, (वृत्तिं वेदेति । वृत्ति + उक्थादित्वात् ठक् ।)
प्रवृत्तिज्ञः । चरः । इति त्रिकाण्ड- शेषः ॥ (यथा, कथासरित्सागरे । ३४ । ७६ । “दुर्गतो वार्त्तिकजनो लोभात् किं नाम ना चरेत् ॥” (वार्त्ता कृष्यादिस्तत्र साधुः । ठक् ।)
वैश्यः । (वार्त्ते आरोग्ये साधुरिति । ठक् ।)
वर्त्तिक- पक्षी । इति राजनिर्घण्टः ॥ वार्त्ताकी । इति शब्दरत्नावली ॥ (वृत्तौ साधुरिति । वृत्ति + “कथादिभ्यष्ठक् ।” ४ । ४ । १०२ । इति ठक् । सूत्रवृत्तिनिपुणे, त्रि ॥)



Correction: