वाचस्पत्यम्
वार्मिण || न० वर्मिणां समूहः अण् न टिलोपः । कवचिसमूहे शब्दर० ।
शब्दकल्पद्रुमः
वार्म्मिणं || क्ली (वर्म्मिणां समूहः । वर्म्मिन् + अण् ।) वर्म्मिसमूहः । इत्यमरटीकायां स्वामी ॥