वाचस्पत्यम्
वावदूक || त्रि० वद—यङ् लुक्—ऊकञ् । बहुवदनशीले वक्तरि अमरः ।
शब्दकल्पद्रुमः
वावदूकः || त्रि (पुनः पुनरतिशयेन वा वदतीति । वद + यङ् लुक् + “उलूकादयश्च ।” उणा० ४ । ४१ । इति ऊकः । “सर्व्वस्वे तु ‘यजजप- दशामिति ।’ ३ । २ । १६६ । इति बहुलवच- नादन्यतोऽपि भवत्यूकप्रत्ययः इति कृत्वा वाव- दूक इति साधितम् ।” इत्युणादिवृत्तौ उज्ज्वल- दत्तः ।)
अतिशयवचनशीलः । तत्पर्य्यायः । वाचोयुक्तिपटुः २ वाग्मी ३ वक्ता ४ । इत्यमरः ॥ वचक्नः ५ सुवचाः ६ प्रवाक् ७ । इति जटा- धरः ॥ (यथा, महाभारते । १२ । १९ । २४ । “अमृतस्यावमन्तारो वक्तारो जनसंसदि । चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः ॥”)