संस्कृत-शब्दकोशः

वाशिन्त वाशिष्ठी

वाशिष्ठ

वाचस्पत्यम्

वा(सि)शिष्ठ ||‍ न० वशि(सि)ष्ठस्येदम् अण् तेन प्रोक्तं वा अण् । वशिष्ठप्रणीते १ उपपुराणभेदे २ योगशास्त्रभेदे च । ३ वशि(सि)ष्ठसम्बन्धिनि त्रि० । ४ गोमत्यां नद्यां स्त्री हेमच० ङीप् ।


शब्दकल्पद्रुमः

वाशिष्ठः || त्रि वशिष्ठसम्बन्धी । वशिष्ठस्येदं इत्यर्थे ष्णप्रत्ययेन निष्पन्नः ॥ (यथा, महाभारते । ३ । ११५ । २ । “लोमशस्तस्य तान् सर्व्वानाचख्यौ तत्र ताप- सान् । भृगूनङ्गिरसश्चैव वाशिष्ठानथ काश्यपान् ॥” क्ली, उपपुराणविशेषः । यथा, देवीभागवते । १ । ३ । १६ । “माहेश्वरं भागवतं वाशिष्ठञ्च सविस्तरम् । एतान्युपपुराणानि कथितानि महात्मभिः ॥” तीर्थभेदः । यथा, महाभारते । ३ । ८४ । ४५ । “ऋषिकुल्यां समासाद्य वाशिष्ठञ्चैव भारत ! । वाशिष्ठं समतिक्रम्य सर्व्वे वर्णा द्बिजातयः ॥”)



Correction: