संस्कृत-शब्दकोशः

वाश्र वाष्पक

वाष्प

वाचस्पत्यम्

वाष्प(स्प) ||‍ पु० वा—प ष(सु)क् च । १ ऊष्मणि २ लोहे मेदि० ३ चक्षुर्जले च अमरः । संज्ञायां कन् । ४ मारिषशाके (नटिया) पुंस्त्री० शब्दर० वा गौ० ङीष् । वाष्पी + (स्पी)- स्वार्थे क । वाष्पि(स्पि)काप्यत्र अमरः । “मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः । मा- रिषो मधुरः शीतो विष्टम्भी पित्तकृद् गुरुः । वात- श्लेष्मकरो रक्तपित्तनुद् विषमाग्निजित् । रक्तमार्षो गुरुर्नादिसक्षारो मधुरः सरः । श्लेष्मलः कटुकः पाके स्वल्पदोष उदोरितः” भावप्र० ।


शब्दकल्पद्रुमः

वाष्पः || पुं, (वाधते इति । वाधृ लोडने + “खष्पशिल्प- शष्पवाष्परूपपर्पतल्पाः ।” उणा० । ३ । २८ । इति पप्रत्यये धस्य षत्वं निपातनात् ।)
उष्मा । (यथा, रघौ । ७ । ६८ । “तस्याः प्रतिद्धन्द्वभवाद्बिषादात् सद्यो विमुक्तं मुखमावभासे । निश्वासवाष्पापगमात् प्रपन्नः प्रसाद मात्मीयमिवात्मदर्शः ॥”)
लोहः । इति मेदिनी । पे, ११ ॥ अश्रुः । इत्य- मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ३९४ । “प्राङ्गण एव कदा मां श्लिष्यन्ती मन्युकम्पि- कुचकलसा । अंशनिषण्णमुखी सा स्नपयति वाष्पेण मम पृष्ठम् ॥”)



Correction: