वाचस्पत्यम्
वासन || न० वास—ल्युट् । १ सुरभीकरणे २ धूपने ३ वारि- धान्याम् ४ वस्त्रे मेदि० ५ वासस्थाने शब्दर० ६ ज्ञान च धरणिः वस—णिच्—ल्युट् । ७ निक्षेपाधारे निक्षेपार्थे मुद्राङ्किते पात्रे च । “वासनस्थमनाख्याय समुद्रं यन्नि- धीयते” नारदः । “वासनं निक्षेपाधारभूतं सम्पुटादिकं समुद्रग्रन्थ्यादियुक्तम्” व्य० त० रघु० । वस—णिच् भावे ल्युट् । ८ क्षेपणे च ।
शब्दकल्पद्रुमः
वासनं || क्ली (वास्यते इति । वासि + ल्युट् ।)
धूपनम् । वारिधानी । वस्त्रम् । इति मेदिनी । ने, १२९ ॥ वासः । इति शब्दरत्नावली ॥ ज्ञानम् । इति धरणिः ॥ निक्षेपाधारः । यथा, याज्ञवल्क्यः । “आधिसीमोपनिक्षेपजडवालधनैर्विना । तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरिह ॥” उपनिक्षेपस्तु । “वासनस्थमनाख्याय समुद्रं यद्विधीयते ॥” इति नारदोक्तेः ॥ वासनं निक्षेपाधारभूतं सम्पुटादिकं समुद्रं ग्रन्थ्यादियुतम् । इति व्यवहारतत्त्वम् ॥ वसन- सम्बन्धिनि, त्रि ॥ (वसनेन क्रीतमिति । वसन + “शतमानविंशतिकसहस्रवसनादण् ।” ५ । १ । २७ । इति अण् । वसनेन क्रीते च, त्रि ॥)