वाचस्पत्यम्
वाहिक || पु० वह—णिच इक । १ ढक्कायां २ गोवाहे (वलदे) ३ शकटादौ धरणिः । ४ भारवाहके त्रि० “गौर्वाहिकः” सा० द० ।
शब्दकल्पद्रुमः
वाहिकः || पुं, (वाहेन परिमाणविशेषेण क्रीतः । वाह + “असमासे निष्कादिभ्यः ।” ५ । १ । २० । इति ठक् ।)
ढक्का । गोवाहः । शकटादि । इति धरणिः ॥ त्रि, भारवाहकश्च ॥