वाचस्पत्यम्
वाह्लीक is an alternate of वाह्लिक. वाह्लि(ह्ली)क || पु० । वह—लिण् स्वार्थे क । १ देशभेदे भरतः । तद्देशजाते—कुङ्कुमे, २ हिङ्गुनि न० मेदि० ।
शब्दकल्पद्रुमः
वाह्लीकं || क्ली कुङ्कुमम् । हिङ्गु । इत्यमर- मेदिनीकरौ ॥
शब्दकल्पद्रुमः
वाह्लीकः || पुं, देशभेदः । वलख् इति आरवी भाषा । तद्देशजातघोटकः । इत्यमरमेदिनी- करौ ॥ गन्धर्व्वविशेषः । इति शब्दरत्नावली ॥ (प्रतीपपुत्त्रविशेषः । यथा, महाभारते । १ । ९५ । ४४ । “प्रतीपः खलु शैव्यामुपयेमे सुतन्दां नाम तस्यां पुत्त्रानुत्पादयामास देवापिं शान्तनुं वाह्लीक- ञ्चेति ॥”)