वाचस्पत्यम्
विकङ्कत || पु० वि + ककि अतच् । (वंइची) १ वृक्षे अमरः २ अतिबलायां स्त्री राजनि० ।
शब्दकल्पद्रुमः
विकङ्कतः || पुं, वदरीसदृशसूक्ष्मफलवृक्षः । वँइच इति भाषा । तत्पर्य्यायः । स्वादुकण्टकः २ स्रुवावृक्षः ३ ग्रन्थिलः ४ व्याघ्रपात् ५ । इत्य- मरः ॥ श्रुग्वारुः ६ मधुपर्णी ७ । इति रत्न- माला ॥ कण्टपादः ८ बहुफलः ९ गोपघण्टा १० स्रुवाद्रुमः ११ मृदुफलः १२ दन्तकाष्ठः १३ यज्ञीयब्रह्मपादपः १४ पिण्डारः १५ हिमकः १६ पूतः १७ किङ्किणी १८ वैकङ्कतः १९ वुति- ङ्करः २० कण्टिकारी २१ । इति शब्दरत्ना- वली ॥ किङ्किरी २२ स्रुग्दारु २३ । इति जटाधरः ॥ अस्य गुणाः । अम्लमधुरत्वम् । पाकेऽतिमधुरत्वम् । लघुत्वम् । दीपनत्वम् । कामलास्रप्लीहनाशित्वम् । पाचनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि । विकङ्कतफलं पक्वं मधुरं सर्व्वदोषजित् ॥” इति भावप्रकाशः ॥