संस्कृत-शब्दकोशः

विकच्छ विकटा

विकट

वाचस्पत्यम्

विकट ||‍ पु० वि + कट—अच् । १ विस्फोटके शब्दरत्ना० २ साक- रुण्डवृक्षे च राजनि० । वि + कटच् । ३ विशाले त्रि० मेदि० । ४ विकृत त्रि० त्रिका० ५ सुन्दरे त्रि० विश्वः ६ दन्तुरे त्रि० घरणिकोषः ७ मायादेव्यां स्त्री त्रिकाण्डशेषः ।


शब्दकल्पद्रुमः

विकटः || त्रि (वि + “संप्रोदश्च कटच् ।” ५ । २ । २९ । इति कटच् ।)
विशालः । (यथा, माघे । १० । ४२ । “उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् । आवरिष्ट विकटेन विवोढु- र्वक्षसैव कुचमण्डलमन्या ॥”)
विकरालः । इति मेदिनी । टे, ॥ सुन्दरः । इति विश्वः ॥ दन्तुरः । इति धरणिः ॥ (यथा, मार्क- ण्डेये । ४३ । २० । “करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः । पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥”)
विकृतः । इति त्रिकाण्डशेषः ॥


शब्दकल्पद्रुमः

विकटः || पुं, (विकटति पूयरक्तादिकं वर्षतीति । वि + कट + पदाद्यच् ।)
विस्फोटकः । इति शब्दरत्नावली ॥ साकुरुण्डवृक्षः । इति राज- निर्घण्टः ॥ (धृतराष्ट्रस्य पुत्त्रविशेषः । यथा, महाभारते । १ । ६७ । ९६ । “दुर्म्मदो दुष्प्रहर्षश्च विवित्सुर्विकटः समः ॥”)



Correction: