संस्कृत-शब्दकोशः

विकटा विकत्थन

विकण्टक

वाचस्पत्यम्

विकण्टक ||‍ पु० विगतः कण्टकोऽस्य । १ यवासे जटा० । २ शत्रु- हीने त्रि० ।


शब्दकल्पद्रुमः

विकण्टकः || पुं, (विशिष्टः कण्टको यस्य ।)
यवासः । इति जटाधरः ॥ वृक्षविशेषः । तत्पर्य्यायः । मृदुफलः २ ग्रन्थिलः ३ स्वादुकण्टकः ४ गोकण्टकः ५ काकनासः ६ व्याघ्रपादः ७ घन- द्रुमः ८ गर्जाफलः ९ घनफलः १० मेघस्तनितो- द्भवः ११ मुदिरफलः १२ प्रावृष्यः १३ हास्य- फलः १४ स्तनितफलः १५ । अस्य गुणाः । कषायत्वम् । कटुत्वम् । उष्णत्वम् । रुचिप्रद- त्वम् । दीपनत्वम् । कफहारित्वम् । वस्त्ररङ्ग- विधायकत्वञ्च । इति राजनिर्घण्टः ॥



Correction: