वाचस्पत्यम्
विकलाङ्ग || त्रि० स्वभावहीनमङ्गमस्य । स्वभावतो न्यूनाधिकाङ्गे अमरः ।
शब्दकल्पद्रुमः
विकलाङ्गः || त्रि (विकलानि अङ्गानि यस्य ।)
स्वभावतो न्यूनाङ्गः । तत्पर्य्यायः । अपोगण्डः २ । इत्यमरः ॥ पोगण्डः ३ अङ्गहीनकः ४ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । ३१ । ३४ । “जनयामास पुत्त्रौ द्वावरुणं गरुडं तथा । विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः ॥”)