वाचस्पत्यम्
विकाशिन् || त्रि० वि + काश—णिनि । प्रकाशशीले विकश्वरे अमरः ।
शब्दकल्पद्रुमः
विकाशी || [न्] त्रि, (विकाशोऽस्यास्तीति । विकाश + इनिः ।)
विकाशशीलः । इत्यमर- टीकायां रायमुकुटः ॥ (यथा, मार्कण्डेये । “कात्यायनीं तुष्टवुरिष्टलम्भात् विकाशिवक्त्रास्तु विकाशिताशाः ॥”)