वाचस्पत्यम्
विकुस्र || पु० वि + कुस—रक् । चन्द्रे उणादिकोषः ।
शब्दकल्पद्रुमः
विकुस्रः || पुं, (विकसतीति । वि + कस + “वौ कसेः ।” उणा० २ । १५ । इति रक् । उत्वञ्चो पधायाः ।) चन्द्रः । इत्युणादिकोषः ॥