संस्कृत-शब्दकोशः

विक्रमार्क विक्रय

विक्रमिन्

वाचस्पत्यम्

विक्रमिन् ||‍ पु० वि + क्रम—णिनि । १ सिंहे, राजनि० २ विष्णौ विष्णुपु० । ३ विक्रमयुक्ते त्रि० स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

विक्रमी || [न्] पुं, (विक्रमोऽस्त्यस्येति । विक्रम + इनिः ।)
सिंहः । इति राजनिर्घण्टः ॥ विष्णुः । यथा, —
“ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।” इति महाभारते अनुशासनपर्व्वणि तस्य सहस्र- नामस्तोत्रे १४९ अध्याये २२ श्लोकः ॥ अति- शक्तिविशिष्टे, त्रि ॥ (यथा, महाभारते । १ । १२८ । २८ । “प्राणवान् विक्रमी चैव शौर्य्येण महता- न्वितः । स्पर्द्धते चापि सहितानस्मानेको वृकोदरः ॥”)



Correction: