वाचस्पत्यम्
विगतार्त्तवा || स्त्री विगतमार्त्तवं रजो यस्याः । गतरजस्कायां स्त्रियाम् शब्दरत्ना० ।
शब्दकल्पद्रुमः
विगतार्त्तवा || स्त्री (विगतं आर्त्तवं रजो यस्याः ।)
पञ्चपञ्चाशदब्देभ्य ऊर्द्ध्वं निवृत्तरजस्का । तत्- पर्य्यायः । निष्कली २ निष्कला ३ निष्फली ४ निष्फला ५ विकली ६ विकला ७ । इति शब्द- रत्नावली ॥