संस्कृत-शब्दकोशः

विगीति विगूढ

विगुण

वाचस्पत्यम्

विगुण ||‍ त्रि० विरुद्धो गुणोऽस्य । गुणरहिते ।


शब्दकल्पद्रुमः

विगुणः || त्रि (विपरीतो गुणो यस्य ।)
गुण- वैपरीत्यविशिष्टः । यथा, —
“यथा मनो ममाचष्ट नेयं माता तथा मम । विगुणेष्वपि पुत्त्रेषु न माता विगुणा भवेत् ॥” इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तराध्यायः ॥ (सूक्ष्मः । यथा, भागवते । ७ । ९ । ४८ । “सर्व्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनो वचसा निरुक्तम् ॥” गुणहीनः । यथा, शिशुपालवधे । ९ । १२ । “अवसन्नतापमतमिस्रमभा- दपदोषतैव विगुणस्य गुणः ॥”)



Correction: