वाचस्पत्यम्
विच || पृथक्करणे रु० जु० वा उ० अक० अनिट् । विनक्ति वि- वेक्ति विङ्क्ते विविक्ते । इरित् अविचत् अवैक्षीत् ।
शब्दकल्पद्रुमः
विच || इर् लि ध औ ञ पृथक्त्वे । इति कवि- कल्पद्रुमः ॥ (अदा०-ह्वा०-रुधा०-च-उभ०- अक०-सकञ्च-अनिट् ।)
इर्, अविचत् । अवैक्षीत् । लि, ञ, वेवेक्ति वेविक्ते मूर्खात् पण्डितः पृथक् स्यादित्यर्थः । विज इति जान्तो यः स एव चान्तोऽपि पठ्यते कस्यचिदनुरोधात् तेन निजां खेरेणुरित्यस्य वृत्तौ विजग्रहणे- नैवास्य ग्रहणात् खेर्गुणः । ध ञ, विनक्ति विङ्क्ते । विविनच्मि दिवः सुरान् इति पृथक् करोमीत्यर्थः । औ, वेक्ता । इति दुर्गा- दासः ॥