संस्कृत-शब्दकोशः

विचकिल विचक्षणा

विचक्षण

वाचस्पत्यम्

विचक्षण ||‍ पु० वि + चक्ष—ल्यु न ख्यादेशः । १ पण्डिते अमरः २ नागदन्त्यां स्त्री राजनि० टाप् ।


शब्दकल्पद्रुमः

विचक्षणः || पुं, (विशेषेण चष्टे धर्म्मादिमुपदि- शतीति । वि + चक्ष + “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति कर्त्तरि युच् ।)
पण्डितः । इत्यमरः ॥ (यथा रघुवंशे । ५ । १९ । “ततो यथावद् विहिताध्वराय तस्मै स्मयावेशविवर्ज्जिताय । वर्णाश्रमाणां गुरवे सवर्णी विचक्षणः प्रस्तुतमाचचक्षे ॥”)
निपुणे, त्रि । इति राजनिर्घण्टः ॥ (यथा भाग- वते । १ । ५ । १६ । “विचक्षणोऽस्यर्हति वेदितुं विभो अनन्तषारस्य निवृत्तितः सुखम् ॥” नानार्थदर्शी । यथा ऋग्वेदे । ४ । ५३ । २ “विचक्षलः प्रथयन्नापृणन्नुर्व्वजीजनत् सविता सुम्नमुक्थ्यम् ।” “विचक्षणः विविधं द्रष्टा ।” इति तद्भाष्ये सायणः ॥)



Correction: