वाचस्पत्यम्
विचित्रवीर्य्य || पु० शान्तनुनृपात्मजे नृपभेदे भा० आ० १०६ अ०
शब्दकल्पद्रुमः
विचित्रवीर्य्यः || पुं, (विचित्राणि वीर्य्याणि यस्य सः ।)
चन्द्रवंशीयराजविशेषः । स च शान्तनो- र्दासकन्यायां जातः । तस्य क्षेत्रे सत्यवत्या- ज्ञया व्यासो धृतराष्ट्रं पाण्डुञ्च जनयामास । इति श्रीभागवतमतम् ॥