वाचस्पत्यम्
विचित्राङ्ग || पुंस्त्री० पिचित्रमङ्गं यस्य । (चिते) १ व्याघ्रभेदे शब्दच० २ मयूरे पुंस्त्री० शब्दर० उभयत्र स्त्रियां ङीष् ३ आश्चर्य्योदेहे त्रि० ।
शब्दकल्पद्रुमः
विचित्राङ्गः || त्रि (विचित्राणि अङ्गानि यस्य ।)
मयूरः । इति शब्दरत्नावली ॥ व्याघ्रः । इति शब्दचन्द्रिका ॥ आश्चर्य्यशरीरे, त्रि ॥