वाचस्पत्यम्
विच्छ || गतौ तु० पर० स्वार्थे आय, आयपक्षे उ० सक० सेट् । विच्छायति विच्छायते विच्छति । अविच्छायीत् अविच्छा- यिष्ट अविच्छीत् ।
वाचस्पत्यम्
विच्छ || दीप्तौ चु० उभ० सक० सेट् । विच्छयति ते अविविच्छत् त
शब्दकल्पद्रुमः
विच्छ || क त्विषि । इति कविकल्पद्रुमः (चुरा०- पर०-अक०-सेट् ।)
क, विच्छयति । त्विषि दीप्तौ । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
विच्छ || श गतौ । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।)
विच्छायति विच्छायते आयन्तत्वादुभयमिति वोपदेवः । पक्षे विच्छति । श, विच्छती विच्छन्ती । इति दुर्गादासः ॥