संस्कृत-शब्दकोशः

विजाता विजिगीष

विजातीय

वाचस्पत्यम्

विजातीय ||‍ त्रि० विभिन्नां जातिं धर्ममर्हति छ । विभिन्न-


शब्दकल्पद्रुमः

विजातीयः || त्रि (विभिन्नां जातिमर्हतीति । विजाति + छः ।)
विभिन्नधर्म्माक्रान्तः । यथा, “प्रायश्चित्ताद्बिजातीयात् तादृक्पापविना- शनम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (यथा च साहित्यदर्पणे ७ परिच्छेदे । “एवं पददोषसजातीया वाक्ये दोषा उक्ताः सम्प्रति तद्बिजातीया उच्यन्ते ॥”)
विशेष- जातिविशिष्टः । यथा, —
“प्रवाहो नादिमानेव न विजात्येकशक्तिमान् । तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः ॥” एष कार्य्यकारणप्रवाहो नादिमान् अनादिः । विजातीयेषु तृणादिषु एकशक्तिमान् न प्रवाहः । अन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे नियतात्व- निर्व्वाह्ये यत्नवता भाव्यं यत्नः करणीयः वैजात्य- मिति भावः । वह्निसामान्यं प्रति विजाती- योष्णस्पर्शवत्तेज एव कारणम् । इति हरि- दासीककुसुमाञ्जलिटीका ॥



Correction: